निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः। क्रतुमध्योपनीतानां पशूनामिव राघव
एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः। विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत्
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ। अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशतः
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः। चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः। खं च गां च दिशश्चैव नादयञ्जलदो यथा
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः। दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः। शशंस तस्य काकुस्त्थं कबन्धस्य महाबलः
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः। तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्
मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम्। मया सह चरत्येष भार्यया च महद् वनम्
अस्य देवप्रभावस्य वसतो विजने वने। रक्षसापहृता भार्या यामिच्छन्ताविहागतौ
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने। आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः। उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन्
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम्। दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा। तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव
thumb|एकसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-
पुरा राम महाबाहो महाबलपराक्रमम्। रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः। सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्
ऋषीन् वनगतान् राम त्रासयामि ततस्ततः। ततः स्थूलशिरा नाम महर्षिः कोपितो मया
स चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः। तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना
एतदेवं नृशंसं ते रूपमस्तु विगर्हितम्। स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति
अभिशापकृतस्येति तेनेदं भाषितं वचः। यदा छित्त्वा भुजौ रामस्त्वां दहेद् विजने वने
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्। श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे। अहं हि तपसोग्रेण पितामहमतोषयम्
दीर्घमायुः स मे प्रादात् ततो मां विभ्रमोऽस्पृशत् । दीर्घमायुर्मया प्राप्तं किं मां शक्रः करिष्यति
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्। तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा
सक्थिनी च शिरश्चैव शरीरे सम्प्रवेशितम्। स मया याच्यमानः सन् नानयद् यमसादनम्
पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्। अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः
वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्। स एवमुक्तः शक्रो मे बाहू योजनमायतौ
तदा चास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् । सोऽहं भुजाभ्यां दीर्घाभ्यां संक्षिप्यास्मिन् वनेचरान्
सिंहद्वीपिमृगव्याघ्रान् भक्षयामि समन्ततः। स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः