व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्। कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ। नहि भारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे। कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्। अवेक्ष्य सौमित्रिमुदग्रविक्रमः स्थिरां तदा स्वां मतिमात्मनाकरोत्
thumb|सप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्ततितमः सर्गः ॥३-
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ। बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ। आहारार्थं तु संदिष्टौ दैवेन हतचेतनौ
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा। उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः। तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू
भीषणोऽयं महाकायो राक्षसा भुजविक्रमः। लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः। क्रतुमध्योपनीतानां पशूनामिव राघव
एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः। विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत्
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ। अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशतः
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः। चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः। खं च गां च दिशश्चैव नादयञ्जलदो यथा
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः। दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः। शशंस तस्य काकुस्त्थं कबन्धस्य महाबलः
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः। तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्
मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम्। मया सह चरत्येष भार्यया च महद् वनम्
अस्य देवप्रभावस्य वसतो विजने वने। रक्षसापहृता भार्या यामिच्छन्ताविहागतौ
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने। आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः। उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन्
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम्। दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा। तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव
thumb|एकसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकसप्ततितमः सर्गः ॥३-
पुरा राम महाबाहो महाबलपराक्रमम्। रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्
यथा सूर्यस्य सोमस्य शक्रस्य च यथा वपुः। सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्
ऋषीन् वनगतान् राम त्रासयामि ततस्ततः। ततः स्थूलशिरा नाम महर्षिः कोपितो मया
स चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः। तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना
एतदेवं नृशंसं ते रूपमस्तु विगर्हितम्। स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति