कर्णनासे निकृत्ते तु विस्वरं विननाद सा। यथागतं प्रदुद्राव राक्षसी घोरदर्शना
तस्यां गतायां गहनं व्रजन्तौ वनमोजसा। आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ
लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः। अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः। प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम। ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम्
एष वञ्जुलको नाम पक्षी परमदारुणः। आवयोर्विजयं युद्धे शंसन्निव विनर्दति
तयोरन्वेषतोरेवं सर्वं तद् वनमोजसा। संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद् वनम्
संवेष्टितमिवात्यर्थं गहनं मातरिश्वना। वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव
तं शब्दं कांक्षमाणस्तु रामः खड्गी सहानुजः। ददर्श सुमहाकायं राक्षसं विपुलोरसम्
आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम्। विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम्
रोमभिर्निशितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्। नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता। महापक्षेण पिङ्गेन विपुलेनायतेन च
एकेनोरसि घोरेण नयनेन सुदर्शिना। महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विजान्। घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ
कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान्। आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान्
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः। अथ तं समतिक्रम्य क्रोशमात्रं ददर्शतुः
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम्। कबन्धमिव संस्थानादतिघोरप्रदर्शनम्
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ। जग्राह सहितावेव राघवौ पीडयन् बलात्
खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ। भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ
तत्र धैर्याच्च शूरस्तु राघवो नैव विव्यथे। बाल्यादनाश्रयाच्चैव लक्ष्मणस्त्वभिविव्यथे
उवाच च विषण्णः सन् राघवं राघवानुजः। पश्य मां विवशं वीर राक्षसस्य वशंगतम्
मयैकेन तु निर्युक्तः परिमुच्यस्व राघव। मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम्
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः। प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्
तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा। लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत्
मा स्म त्रासं वृथा वीर नहि त्वादृग् विषीदति। एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ
तावुवाच महाबाहुः कबन्धो दानवोत्तमः। कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ
घोरं देशमिमं प्राप्तौ दैवेन मम चाक्षुषौ। वदतं कार्यमिह वां किमर्थं चागतौ युवाम्
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः। सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ
मां तूर्णमनुसम्प्राप्तौ दुर्लभं जीवितं हि वाम्। तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता। कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम