स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः। महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्
कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः। प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ
thumb|एकोनसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-
कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा। अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम्
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ। अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्। आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्। सुभीमं तन्महारण्यं व्यतियातौ महाबलौ
ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ। क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः। नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्
दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः। तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ
ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा। क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे
दृष्ट्वा तु तद् वनं घोरं बहुभीममृगद्विजम्। नानावृक्षसमाकीर्णं सर्वं गहनपादपम्
ददृशाते गिरौ तत्र दरीं दशरथात्मजौ। पातालसमगम्भीरां तमसा नित्यसंवृताम्
आसाद्य च नरव्याघ्रौ दर्यास्तस्याविदूरतः। ददर्शतुर्महारूपां राक्षसीं विकृताननाम्
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम्। लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम्
भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम्। अवैक्षतां तु तौ तत्र भ्रातरौ रामलक्ष्मणौ
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः। एहि रंस्यावहेत्युक्त्वा समालम्भत लक्ष्मणम्
उवाच चैनं वचनं सौमित्रिमुपगुह्य च। अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः
नाथ पर्वतदुर्गेषु नदीनां पुलिनेषु च। आयुश्चिरमिदं वीर त्वं मया सह रंस्यसे
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः। कर्णनासस्तनं तस्या निचकर्तारिसूदनः
कर्णनासे निकृत्ते तु विस्वरं विननाद सा। यथागतं प्रदुद्राव राक्षसी घोरदर्शना
तस्यां गतायां गहनं व्रजन्तौ वनमोजसा। आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ
लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः। अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः। प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम। ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम्
एष वञ्जुलको नाम पक्षी परमदारुणः। आवयोर्विजयं युद्धे शंसन्निव विनर्दति
तयोरन्वेषतोरेवं सर्वं तद् वनमोजसा। संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद् वनम्
संवेष्टितमिवात्यर्थं गहनं मातरिश्वना। वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव
तं शब्दं कांक्षमाणस्तु रामः खड्गी सहानुजः। ददर्श सुमहाकायं राक्षसं विपुलोरसम्
आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम्। विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम्