ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः। त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम्
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा। विक्षिप्य च शरीरं स्वं पपात धरणीतले
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्। रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्। अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा
अनेकवार्षिको यस्तु चिरकालसमुत्थितः। सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे। सीतामभ्यवपन्नो हि रावणेन बलीयसा
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्। मम हेतोरयं प्राणान् मुमोच पतगेश्वरः
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः। शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि
सीताहरणजं दुःखं न मे सौम्य तथागतम्। यथा विनाशो गृध्रस्य मत्कृते च परंतप
राजा दशरथः श्रीमान् यथा मम महायशाः। पूजनीयश्च मान्यश्च तथायं पतगेश्वरः
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्। गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम्
नाथं पतगलोकस्य चितिमारोपयाम्यहम्। इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः। अपरावर्तिनां या च या च भूमिप्रदायिनाम्
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्। गृध्रराज महासत्त्व संस्कृतश्च मया व्रज
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्। ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान्। स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम्
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः। शकुनाय ददौ रामो रम्ये हरितशाद्वले
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः। तत् स्वर्गगमनं पित्र्यं तस्य रामो जजाप ह
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ। उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ
शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ। स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः। महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम्
कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः। प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ
thumb|एकोनसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥३-
कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा। अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम्
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ। अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्। आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्। सुभीमं तन्महारण्यं व्यतियातौ महाबलौ
ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ। क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः। नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्
दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः। तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ