कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना । एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥१-२६-
विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते । ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥१-२६-
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् । इहाद्य रजनीं राम वसाम शुभदर्शन ॥१-२६-
श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम । विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥१-२६-
उवास रजनीं तत्र ताटकाया वने सुखम् । मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि । रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥१-२६-
निहत्य तां यक्षसुतां स रामः ::प्रशस्यमानः सुरसिद्धसङ्घैः । उवास तस्मिन् मुनिना सहैव ::प्रभातवेलां प्रतिबोध्यमानः ॥१-२६-
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकीयरामायणे बालकाण्डे सप्तविंशः सर्गः ॥१-
अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम् ॥१-२७-
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥१-२७-
देवासुरगणान् वापि सगन्धर्वोरगान् भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥१-२७-
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महद् दिव्यं तव दास्यामि राघव ॥१-२७-
धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥१-२७-
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥१-२७-
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् । गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे ॥१-२७-
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥१-२७-
वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥१-२७-
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा । आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥१-२७-
वायव्यं प्रथमं नाम ददामि तव चानघ । अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥१-२७-
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव । कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम् ॥१-२७-
वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः । वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥१-२७-
असिरत्नं महाबाहो ददामि नृवरात्मज । गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः ॥१-२७-
प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव । वर्षणं शोषणं चैव संतापनविलापने ॥१-२७-
मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा । गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥१-२७-
पैशाचमस्त्रं दयितं मोहनं नाम नामतः । प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-
तामसं नरशार्दूल सौमनं च महाबलम् । संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥१-२७-
सत्यमस्त्रं महाबाहो तथा मायामयं परम् । सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥१-२७-
सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥१-२७-
एतान् राम महाबाहो कामरूपान् महाबलान् । गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥१-२७-
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा । ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥१-२७-
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥१-२७-