अयं पितुर्वयस्यो मे गृध्रराजो महाबलः। शेते विनिहतो भूमौ मम भाग्यविपर्ययात्
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः। जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्
निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिगृह्य राघवः। क्व मैथिली प्राणसमा गतेति विमुच्य वाचं निपपात भूमौ
thumb|अष्टषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टषष्ठितमः सर्गः ॥३-
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्। सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत्
ममायं नूनमर्थेषु यतमानो विहंगमः। राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते
अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते। तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः। सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः
किंनिमित्तो जहारार्यां रावणस्तस्य किं मया। अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्। सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः। क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः
तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत्। वाचा विक्लवया राममिदं वचनमब्रवीत्
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना। मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः। सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव। पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्
येन याति मुहूर्तेन सीतामादाय रावणः। विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते
विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् । त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः। झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति। वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः। आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम्
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च। इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः। त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम्
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा। विक्षिप्य च शरीरं स्वं पपात धरणीतले
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्। रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्। अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा
अनेकवार्षिको यस्तु चिरकालसमुत्थितः। सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे। सीतामभ्यवपन्नो हि रावणेन बलीयसा
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्। मम हेतोरयं प्राणान् मुमोच पतगेश्वरः
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः। शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि
सीताहरणजं दुःखं न मे सौम्य तथागतम्। यथा विनाशो गृध्रस्य मत्कृते च परंतप
राजा दशरथः श्रीमान् यथा मम महायशाः। पूजनीयश्च मान्यश्च तथायं पतगेश्वरः