महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः। अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्
या चेयं जगतो माता सर्वलोकनमस्कृता। अस्याश्च चलनं भूमेर्दृश्यते कोसलेश्वर
यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम्। आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ। न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ। श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि
मृतायामपि वैदेह्यां नष्टायामपि राघव। शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा
त्वद्विधा नहि शोचन्ति सततं सर्वदर्शनाः। सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय। बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे
अदृष्टगुणदोषाणामध्रुवाणां तु कर्मणाम्। नान्तरेण क्रियां तेषां फलमिष्टं च वर्तते
मामेवं हि पुरा वीर त्वमेव बहुशोक्तवान्। अनुशिष्याद्धि को नु त्वामपि साक्षाद् बृहस्पतिः
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया। शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम्
दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम्। इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ। तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि
thumb|सप्तषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तषष्ठितमः सर्गः ॥३-
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्। सारग्राही महासारं प्रतिजग्राह राघवः
स निगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः। अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण। केनोपायेन पश्यावः सीतामिह विचिन्तय
तं तथा परितापार्तं लक्ष्मणो वाक्यमब्रवीत्। इदमेव जनस्थानं त्वमन्वेषितुमर्हसि
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्। सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च
गुहाश्च विविधा घोरा नानामृगगणाकुलाः। आवासाः किंनराणां च गन्धर्वभवनानि च
तानि युक्तो मया सार्धं समन्वेषितुमर्हसि। त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः। इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्। ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्। तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्
अनेन सीता वैदेही भक्षिता नात्र संशयः। गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्। एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैरजिह्मगैः
इत्युक्त्वाभ्यपतद् द्रष्टुं संधाय धनुषि क्षुरम्। क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्
तं दीनदीनया वाचा सफेनं रुधिरं वमन्। अभ्यभाषत पक्षी स रामं दशरथात्मजम्
यामोषधीमिवायुष्मन्नन्वेषसि महावने। सा देवी मम च प्राणा रावणेनोभयं हृतम्
त्वया विरहिता देवी लक्ष्मणेन च राघव। ह्रियमाणा मया दृष्टा रावणेन बलीयसा