लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम्। शरमादाय संदीप्तं घोरमाशीविषोपमम्
संदधे धनुषि श्रीमान् रामः परपुरञ्जयः। युगान्ताग्निरिव क्रुद्ध इदं वचनमब्रवीत्
यथा जरा यथा मृत्युर्यथा कालो यथा विधिः। नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण। तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्
पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्। सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्यहम्
thumb|पञ्चषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चषष्ठितमः सर्गः ॥३-
तप्यमानं तदा रामं सीताहरणकर्शितम्। लोकानामभवे युक्तं सांवर्तकमिवानलम्
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः। दग्धुकामं जगत् सर्वं युगान्ते च यथा हरम्
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः। अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः। न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा। एतच्च नियतं नित्यं त्वयि चानुत्तमं यशः
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि। ननु जानामि कस्यायं भग्नः सांग्रामिको रथः
केन वा कस्य वा हेतोः सयुगः सपरिच्छदः। खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः
देशो निर्वृत्तसंग्रामः सुघोरः पार्थिवात्मज। एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर
नहि वृत्तं हि पश्यामि बलस्य महतः पदम्। नैकस्य तु कृते लोकान् विनाशयितुमर्हसि
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः। सदा त्वं सर्वभूतानां शरण्यः परमा गतिः
को नु दारप्रणाशं ते साधु मन्येत राघव। सरितः सागराः शैला देवगन्धर्वदानवाः
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः। येन राजन् हृता सीता तमन्वेषितुमर्हसि
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः। समुद्रं वा विचेष्यामः पर्वतांश्च वनानि च
गुहाश्च विविधा घोराः पद्मिन्यो विविधास्तथा। देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्। न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः। कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र। ततः समुत्सादय हेमपुङ्खै- र्महेन्द्रवज्रप्रतिमैः शरौघैः
thumb|षट्षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्षष्ठितमः सर्गः ॥३-
तं तथा शोकसंतप्तं विलपन्तमनाथवत्। मोहेन महता युक्तं परिद्यूनमचेतसम्
ततः सौमित्रिराश्वस्य मुहूर्तादिव लक्ष्मणः। रामं सम्बोधयामास चरणौ चाभिपीडयन्
महता तपसा चापि महता चापि कर्मणा। राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः। राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे। प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति
आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः। संस्पृशन्त्यग्निवद् राजन् क्षणेन व्यपयान्ति च
दुःखितो हि भवाँल्लोकांस्तेजसा यदि धक्ष्यते। आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्
लोकस्वभाव एवैष ययातिर्नहुषात्मजः। गतः शक्रेण सालोक्यमनयस्तं समस्पृशत्