मुक्तामणिचितं चेदं रमणीयं विभूषितम्। धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः
राक्षसानामिदं वत्स सुराणामथवापि वा। तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्। छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्
भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम्। काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः
भीमरूपा महाकायाः कस्य वा निहता रणे। दीप्तपावकसंकाशो द्युतिमान् समरध्वजः
अपविद्धश्च भग्नश्च कस्य साङ्ग्रामिको रथः। रथाक्षमात्रा विशिखास्तपनीयविभूषणाः
कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः। शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण
प्रतोदाभीषुहस्तोऽयं कस्य वा सारथिर्हतः। पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः
वैरं शतगुणं पश्य मम तैर्जीवितान्तकम्। सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः
हृता मृता वा वैदेही भक्षिता वा तपस्विनी। न धर्मस्त्रायते सीतां ह्रियमाणां महावने
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण। के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः
कर्तारमपि लोकानां शूरं करुणवेदिनम्। अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्। निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण। अद्यैव सर्वभूतानां रक्षसामभवाय च
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः। संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः। किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण
ममास्त्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण। असम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्
संनिरुद्धग्रहगणमावारितनिशाकरम्। विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम्
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्। ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा। न ते कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्। नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण
समाकुलममर्यादं जगत् पश्याद्य लक्ष्मण। आकर्णपूर्णैरिषुभिर्जीवलोकदुरावरैः
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम्। मम रोषप्रयुक्तानां विशिखानां बलं सुराः
द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद् दूरगामिनाम्। नैव देवा न दैतेया न पिशाचा न राक्षसाः
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते। देवदानवयक्षाणां लोका ये रक्षसामपि
बहुधा निपतिष्यन्ति बाणौघैः शकलीकृताः। निर्मर्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः
हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः। तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम्
नाशयामि जगत् सर्वं त्रैलोक्यं सचराचरम्। यावद् दर्शनमस्या वै तापयामि च सायकैः
इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसम्पुटः। वल्कलाजिनमाबद्ध्य जटाभारमबन्धयत्
तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः। त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः