सर्वं व्यपानयच्छोकं वैदेही क्व नु सा गता। ज्ञातिवर्गविहीनस्य वैदेहीमप्यपश्यतः
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः। मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम्
सर्वाण्यनुचरिष्यामि यदि सीता हि लभ्यते। एते महामृगा वीर मामीक्षन्ते पुनः पुनः
वक्तुकामा इह हि मे इङ्गितान्युपलक्षये। तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह
क्व सीतेति निरीक्षन् वै बाष्पसंरुद्धया गिरा। एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः
दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम्। मैथिली ह्रियमाणा सा दिशं यामभ्यपद्यत
तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम्। येन मार्गं च भूमिं च निरीक्षन्ते स्म ते मृगाः
पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः। तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम्
उवाच लक्ष्मणो धीमान् ज्येष्ठं भ्रातरमार्तवत्। क्व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः
दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः। साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम्
यदि तस्यागमः कश्चिदार्या वा साथ लक्ष्यते। बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम्
लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुंधराम्। एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ
वसुंधरायां पतितपुष्पमार्गमपश्यताम्। पुष्पवृष्टिं निपतितां दृष्ट्वा रामो महीतले
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः। अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण
अपिनद्धानि वैदेह्या मया दत्तानि कानने। मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम्। एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्
उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम्। कच्चित् क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी
रामा रम्ये वनोद्देशे मया विरहिता त्वया। क्रुद्धोऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा
तां हेमवर्णां हेमाङ्गीं सीतां दर्शय पर्वत। यावत् सानूनि सर्वाणि न ते विध्वंसयाम्यहम्
एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति। दर्शयन्निव तां सीतां नादर्शयत राघवे
ततो दाशरथी राम उवाच च शिलोच्चयम्। मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि
असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः। इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण
यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्। एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्। त्रस्ताया रामकांक्षिण्याः प्रधावन्त्या इतस्ततः
राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु। स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च
भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम्। सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्
पश्य लक्ष्मण वैदेह्या कीर्णाः कनकबिन्दवः। भूषणानां हि सौमित्रे माल्यानि विविधानि च
तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः। आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः। भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति
तस्या निमित्तं सीताया द्वयोर्विवदमानयोः। बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह