पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि। तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि
राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः। सर्वाणि मे लक्ष्मण शोकवेग- मापूरयन्ति प्रविचिन्तितानि
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य क्लेशम्। सीतावियोगात् पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसोपदीप्तः
सा नूनमार्या मम राक्षसेन ह्यभ्याहृता खं समुपेत्य भीरुः। अपस्वरं सुस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य। वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिपातः
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम्। रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः
तां हारपाशस्य सदोचितान्तां ग्रीवां प्रियाया मम सुव्रतायाः। रक्षांसि नूनं परिपीतवन्ति शून्ये हि भित्त्वा रुधिराशनानि
मया विहीना विजने वने सा रक्षोभिराहृत्य विकृष्यमाणा। नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा
अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा। कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्
गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्। अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित्
पद्मानना पद्मपलाशनेत्रा पद्मानि वानेतुमभिप्रयाता। तदप्ययुक्तं नहि सा कदाचि- न्मया विना गच्छति पङ्कजानि
कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम्। वनं प्रयाता नु तदप्ययुक्त- मेकाकिनी सातिबिभेति भीरुः
आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन्। मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकहतस्य सर्वम्
लोकेषु सर्वेषु न नास्ति किंचिद् यत् ते न नित्यं विदितं भवेत् तत्। शंसस्व वायो कुलपालिनीं तां मृता हृता वा पथि वर्तते वा
इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेव। उवाच सौमित्रिरदीनसत्त्वो न्याय्ये स्थितः कालयुतं च वाक्यम्
शोकं विसृज्याद्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः। उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमार्तो रघुवंशवर्धनः। न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपागमत्
thumb|चतुःषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःषष्ठितमः सर्गः ॥३-
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्। शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्
अपि गोदावरीं सीता पद्मान्यानयितुं गता। एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः। तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे। कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी
नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा। लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः
रामः समभिचक्राम स्वयं गोदावरीं नदीम्। स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि। न तां शशंसू रामाय तथा गोदावरी नदी
ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति। न च सा ह्यवदत् सीतां पृष्टा रामेण शोचता
रावणस्य च तद्रूपं कर्मापि च दुरात्मनः। ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ह
निराशस्तु तया नद्या सीताया दर्शने कृतः। उवाच रामः सौमित्रिं सीतादर्शनकर्शितः
एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते। किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः
मातरं चैव वैदेह्या विना तामहमप्रियम्। या मे राज्यविहीनस्य वने वन्येन जीवतः