कर्णिकारवनं भद्रे हसन्ती देवि सेवसे। अलं ते परिहासेन मम बाधावहेन वै
विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते। अवगच्छामि ते शीलं परिहासप्रियं प्रिये
आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव। सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा
न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण। एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण
शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः। हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि
हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यति। सीतया सह निर्यातो विना सीतामुपागतः
कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम। निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति
कातरत्वं प्रकाशं हि सीतापनयनेन मे। निवृत्तवनवासश्च जनकं मिथिलाधिपम्
कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्। विदेहराजो नूनं मां दृष्ट्वा विरहितं तया
सुताविनाशसंतप्तो मोहस्य वशमेष्यति। अथवा न गमिष्यामि पुरीं भरतपालिताम्
स्वर्गोऽपि हि तया हीनः शून्य एव मतो मम। तन्मामुत्सृज्य हि वने गच्छायोध्यापुरीं शुभाम्
न त्वहं तां विना सीतां जीवेयं हि कथंचन। गाढमाश्लिष्य भरतो वाच्यो मद्वचनात् त्वया
अनुज्ञातोऽसि रामेण पालयेति वसुंधराम्। अम्बा च मम कैकेयी सुमित्रा च त्वया विभो
कौसल्या च यथान्यायमभिवाद्या ममाज्ञया। रक्षणीया प्रयत्नेन भवता सूक्तचारिणा
सीतायाश्च विनाशोऽयं मम चामित्रसूदन। विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्
इति विलपति राघवे तु दीने वनमुपगम्य तया विना सुकेश्या। भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव
thumb|त्रिषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिषष्ठितमः सर्गः ॥३-
स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः। विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम्
स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः। उवाच वाक्यं व्यसनानुरूप- मुष्णं विनिःश्वस्य रुदन् सशोकम्
न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुंधरायाम्। शोकानुशोको हि परम्पराया मामेति भिन्दन् हृदयं मनश्च
पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि। तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि
राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः। सर्वाणि मे लक्ष्मण शोकवेग- मापूरयन्ति प्रविचिन्तितानि
सर्वं तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य क्लेशम्। सीतावियोगात् पुनरप्युदीर्णं काष्ठैरिवाग्निः सहसोपदीप्तः
सा नूनमार्या मम राक्षसेन ह्यभ्याहृता खं समुपेत्य भीरुः। अपस्वरं सुस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम्
तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य। वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिपातः
तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम्। रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः
तां हारपाशस्य सदोचितान्तां ग्रीवां प्रियाया मम सुव्रतायाः। रक्षांसि नूनं परिपीतवन्ति शून्ये हि भित्त्वा रुधिराशनानि
मया विहीना विजने वने सा रक्षोभिराहृत्य विकृष्यमाणा। नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा
अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा। कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम्
गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम्। अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित्