जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ। तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा। मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः
एवमुक्तः स सौहार्दाल्लक्ष्मणेन समाहितः। सह सौमित्रिणा रामो विचेतुमुपचक्रमे
तौ वनानि गिरींश्चैव सरितश्च सरांसि च। निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ
तस्य शैलस्य सानूनि शिलाश्च शिखराणि च। निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्। नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम्
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत्। विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्
प्राप्स्यसे त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्। यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्
एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः। उवाच दीनया वाचा दुःखाभिहतचेतनः
वनं सुविचितं सर्वं पद्मिन्यः फुल्लपङ्कजाः। गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः। नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्
एवं स विलपन् रामः सीताहरणकर्षितः। दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्
स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः। निषसादातुरो दीनो निःश्वस्याशीतमायतम्
बहुशः स तु निःश्वस्य रामो राजीवलोचनः। हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः
तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम्। बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः
अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटच्युतम्। अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः
thumb|द्विषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-
सीतामपश्यन् धर्मात्मा शोकोपहतचेतनः। विललाप महाबाहू रामः कमललोचनः
पश्यन्निव च तां सीतामपश्यन्मन्मथार्दितः। उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्
त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये। आवृणोषि शरीरं ते मम शोकविवर्धनी
कदलीकाण्डसदृशौ कदल्या संवृतावुभौ। ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्
कर्णिकारवनं भद्रे हसन्ती देवि सेवसे। अलं ते परिहासेन मम बाधावहेन वै
विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते। अवगच्छामि ते शीलं परिहासप्रियं प्रिये
आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव। सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा
न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण। एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण
शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः। हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि
हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यति। सीतया सह निर्यातो विना सीतामुपागतः
कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम। निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति
कातरत्वं प्रकाशं हि सीतापनयनेन मे। निवृत्तवनवासश्च जनकं मिथिलाधिपम्
कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्। विदेहराजो नूनं मां दृष्ट्वा विरहितं तया
सुताविनाशसंतप्तो मोहस्य वशमेष्यति। अथवा न गमिष्यामि पुरीं भरतपालिताम्