किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे। वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि। नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे
पीतकौशेयकेनासि सूचिता वरवर्णिनि। धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्
नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः। विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया
नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम्। पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम्
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयकोचिता। कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ। भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ
मया विरहिता बाला रक्षसां भक्षणाय वै। सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा
हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित्। हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः
इत्येवं विलपन् रामः परिधावन् वनाद् वनम्। क्वचिदुद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः। स वनानि नदीः शैलान् गिरिप्रस्रवणानि च। काननानि च वेगेन भ्रमत्यपरिसंस्थितः
तदा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्वथ मैथिलीं प्रति। अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्
thumb|एकषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-
दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः। रहितां पर्णशालां च प्रविद्धान्यासनानि च
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः। उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया
वृक्षेणावार्य यदि मां सीते हसितुमिच्छसि। अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्
यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः। एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः
सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण। वृतं शोकेन महता सीताहरणजेन माम्
परलोके महाराजो नूनं द्रक्ष्यति मे पिता। कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः
अपूरयित्वा तं कालं मत्सकाशमिहागतः। कामवृत्तमनार्यं वा मृषावादिनमेव च
धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता। विवशं शोकसंतप्तं दीनं भग्नमनोरथम्
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्। क्व गच्छसि वरारोहे मा मोत्सृज सुमध्यमे
त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः। इतीव विलपन् रामः सीतादर्शनलालसः
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्। अनासादयमानं तं सीतां शोकपरायणम्
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्। लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया
मा विषादं महाबुद्धे कुरु यत्नं मया सह। इदं गिरिवरं वीर बहुकन्दरशोभितम्
प्रियकाननसंचारा वनोन्मत्ता च मैथिली। सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम्। वित्रासयितुकामा वा लीना स्यात् कानने क्वचित्