भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि। एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्
अशोक शोकापनुद शोकोपहतचेतनम्। त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्
यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी। कथयस्व वरारोहां कारुण्यं यदि ते मयि
यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा। प्रियां यदि विजानासि निःशङ्क कथयस्व मे
अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम्। कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया
चूतनीपमहासालान् पनसान् कुरवान् धवान्। दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः
बकुलानथ पुन्नागांश्चन्दनान् केतकांस्तथा। पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते
अथवा मृगशावाक्षीं मृग जानासि मैथिलीम्। मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्
गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत्। तां मन्ये विदितां तुभ्यमाख्याहि वरवारण
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना। मैथिली मम विस्रब्धः कथयस्व न ते भयम्
किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे। वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि। नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे
पीतकौशेयकेनासि सूचिता वरवर्णिनि। धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्
नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः। विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया
नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम्। पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम्
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयकोचिता। कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ। भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ
मया विरहिता बाला रक्षसां भक्षणाय वै। सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा
हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित्। हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः
इत्येवं विलपन् रामः परिधावन् वनाद् वनम्। क्वचिदुद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः। स वनानि नदीः शैलान् गिरिप्रस्रवणानि च। काननानि च वेगेन भ्रमत्यपरिसंस्थितः
तदा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्वथ मैथिलीं प्रति। अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्
thumb|एकषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकषष्ठितमः सर्गः ॥३-
दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः। रहितां पर्णशालां च प्रविद्धान्यासनानि च
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः। उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया
वृक्षेणावार्य यदि मां सीते हसितुमिच्छसि। अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्
यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः। एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः
सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण। वृतं शोकेन महता सीताहरणजेन माम्