अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका। न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे
जातो वा जायमानो वा संयुगे यः पराजयेत्। अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः
एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः
भावो मयि तवात्यर्थं पाप एव निवेशितः। विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे
संकेताद् भरतेन त्वं रामं समनुगच्छसि। क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि। राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे
एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः। क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः
एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः। अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः
जानन्नपि समर्थं मां रक्षसामपवारणे। अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान्
नहि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम्। क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वमिहागतः
सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः। क्रोधस्य वशमागम्य नाकरोः शासनं मम
असौ हि राक्षसः शेते शरेणाभिहतो मया। मृगरूपेण येनाहमाश्रमादपवाहितः
विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया। मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः
शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम्। उदाहृतं तद् वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्
thumb|षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-
भृशमाव्रजमानस्य तस्याधो वामलोचनम्। प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः। अपि क्षेमं तु सीताया इति वै व्याजहार ह
त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः
उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः। तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः
ददर्श पर्णशालां च सीतया रहितां तदा। श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव
रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम्। श्रिया विहीनं विध्वस्तं संत्यक्तं वनदैवतैः
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्। दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति। निलीनाप्यथवा भीरुरथवा वनमाश्रिता
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः। अथवा पद्मिनीं याता जलार्थं वा नदीं गता
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्। शोकरक्तेक्षणः श्रीमानुन्मत्त इव लक्ष्यते
वृक्षाद् वृक्षं प्रधावन् स गिरींश्चापि नदीनदम्। बभ्राम विलपन् रामः शोकपङ्कार्णवप्लुतः
अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया। कदम्ब यदि जानीषे शंस सीतां शुभाननाम्
स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्। शंसस्व यदि सा दृष्टा बिल्व बिल्वोपमस्तनी
अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्। जनकस्य सुता तन्वी यदि जीवति वा न वा
ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्। लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः