स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे। दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः। भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः। प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः
आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम्। परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली। गच्छ गच्छेति मामाशु रुदती भयविक्लवा
प्रचोद्यमानेन मया गच्छेति बहुशस्तया। प्रत्युक्ता मैथिली वाक्यमिदं तत् प्रत्ययान्वितम्
न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत्। निर्वृता भव नास्त्येतत् केनाप्येतदुदाहृतम्
विगर्हितं च नीचं च कथमार्योऽभिधास्यति। त्राहीति वचनं सीते यस्त्रायेत् त्रिदशानपि
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्। विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति
राक्षसेनेरितं वाक्यं त्रासात् त्राहीति शोभने। न भवत्या व्यथा कार्या कुनारीजनसेविता
अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका। न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे
जातो वा जायमानो वा संयुगे यः पराजयेत्। अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः
एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः
भावो मयि तवात्यर्थं पाप एव निवेशितः। विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे
संकेताद् भरतेन त्वं रामं समनुगच्छसि। क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि। राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे
एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः। क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः
एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः। अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः
जानन्नपि समर्थं मां रक्षसामपवारणे। अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान्
नहि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम्। क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वमिहागतः
सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः। क्रोधस्य वशमागम्य नाकरोः शासनं मम
असौ हि राक्षसः शेते शरेणाभिहतो मया। मृगरूपेण येनाहमाश्रमादपवाहितः
विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया। मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः
शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम्। उदाहृतं तद् वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम्
thumb|षष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठितमः सर्गः ॥३-
भृशमाव्रजमानस्य तस्याधो वामलोचनम्। प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः। अपि क्षेमं तु सीताया इति वै व्याजहार ह
त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः
उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः। तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः
ददर्श पर्णशालां च सीतया रहितां तदा। श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव