पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण। विना तां तपनीयाभां नेच्छेयं जनकात्मजाम्
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम। कच्चित् प्रव्राजनं वीर न मे मिथ्या भविष्यति
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि। कच्चित् सकामा कैकेयी सुखिता सा भविष्यति
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी। उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयीम्
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः। संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण
यदि मामाश्रमगतं वैदेही नाभिभाषते। पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा। त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी
सुकुमारी च बाला च नित्यं चादुःखभागिनी। मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना। वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्
श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम। त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने। प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः। तैः सीता निहता घोरैर्भविष्यति न संशयः
अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन। किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्
इति सीतां वरारोहां चिन्तयन्नेव राघवः। आजगाम जनस्थानं त्वरया सहलक्ष्मणः
विगर्हमाणोऽनुजमार्तरूपं क्षुधाश्रमेणैव पिपासया च। विनिःश्वसन् शुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्
स्वमाश्रमं स प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित्। एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव
thumb|एकोनषष्ठितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनषष्ठितमः सर्गः ॥३-
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः। परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्। यदा सा तव विश्वासाद् वने विरहिता मया
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण। शङ्कमानं महत् पापं यत्सत्यं व्यथितं मनः
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे। दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः। भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः। प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः
आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम्। परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली। गच्छ गच्छेति मामाशु रुदती भयविक्लवा
प्रचोद्यमानेन मया गच्छेति बहुशस्तया। प्रत्युक्ता मैथिली वाक्यमिदं तत् प्रत्ययान्वितम्
न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत्। निर्वृता भव नास्त्येतत् केनाप्येतदुदाहृतम्
विगर्हितं च नीचं च कथमार्योऽभिधास्यति। त्राहीति वचनं सीते यस्त्रायेत् त्रिदशानपि
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्। विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति
राक्षसेनेरितं वाक्यं त्रासात् त्राहीति शोभने। न भवत्या व्यथा कार्या कुनारीजनसेविता