अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने। जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च। इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्
निवर्तमानस्त्वरितो जगामाश्रममात्मवान्। आत्मनश्चापनयनं मृगरूपेण रक्षसा
आजगाम जनस्थानं राघवः परिशङ्कितः। तं दीनमानसं दीनमासेदुर्मृगपक्षिणः
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्। तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः। न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्। ततोऽविदूरे रामेण समीयाय स लक्ष्मणः
विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना। स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्
विहाय सीतां विजने वने राक्षससेविते। गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः
उवाच मधुरोदर्कमिदं परुषमार्तवत्। अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्
सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति। न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः। अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे
अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे। जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै
यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम्। वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्। अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल
इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम्। हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्। असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-
स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः। पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह। क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः। क्व सा दुःखसहाया मे वैदेही तनुमध्यमा
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्। क्व सा प्राणसहाया मे सीता सुरसुतोपमा
पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण। विना तां तपनीयाभां नेच्छेयं जनकात्मजाम्
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम। कच्चित् प्रव्राजनं वीर न मे मिथ्या भविष्यति
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि। कच्चित् सकामा कैकेयी सुखिता सा भविष्यति
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी। उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयीम्
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः। संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण
यदि मामाश्रमगतं वैदेही नाभिभाषते। पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा। त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी
सुकुमारी च बाला च नित्यं चादुःखभागिनी। मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना। वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्
श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम। त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः