न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता। पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद् भयशोकपीडिता
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तपञ्चाशः सर्गः ॥३-
राक्षसं मृगरूपेण चरन्तं कामरूपिणम्। निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत
तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्। क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः
स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्। चिन्तयामास गोमायोः स्वरेण परिशङ्कितः
अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा। स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना
मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्। विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्। तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति
राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः। काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्
दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः। हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह
अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने। जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च। इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्
निवर्तमानस्त्वरितो जगामाश्रममात्मवान्। आत्मनश्चापनयनं मृगरूपेण रक्षसा
आजगाम जनस्थानं राघवः परिशङ्कितः। तं दीनमानसं दीनमासेदुर्मृगपक्षिणः
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्। तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः। न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्। ततोऽविदूरे रामेण समीयाय स लक्ष्मणः
विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना। स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम्
विहाय सीतां विजने वने राक्षससेविते। गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः
उवाच मधुरोदर्कमिदं परुषमार्तवत्। अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्
सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति। न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः। अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे
अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे। जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै
यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम्। वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्। अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल
इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम्। हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम्। असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥३-
स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः। पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह। क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः। क्व सा दुःखसहाया मे वैदेही तनुमध्यमा
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्। क्व सा प्राणसहाया मे सीता सुरसुतोपमा