य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः। राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः। शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण। उत्पाद्य सुमहद् वैरं जीवंस्तस्य न मोक्ष्यसे
स ते जीवितशेषस्य राघवोऽन्तकरो बली। पशोर्यूपगतस्येव जीवितं तव दुर्लभम्
यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा। रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा। सागरं शोषयेद् वापि स सीतां मोचयेदिह
गतासुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः। लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति
न ते पापमिदं कर्म सुखोदर्कं भविष्यति। याहं नीता विनाभावं पतिपार्श्वात् त्वया बलात्
स हि देवरसंयुक्तो मम भर्ता महाद्युतिः। निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके
स ते वीर्यं बलं दर्पमुत्सेकं च तथाविधम्। अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे
यदा विनाशो भूतानां दृश्यते कालचोदितः। तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम। आत्मनो राक्षसानां च वधायान्तःपुरस्य च
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता। द्विजातिमन्त्रसम्पूता चण्डालेनावमर्दितुम्
तथाहं धर्मनित्यस्य धर्मपत्नी दृढव्रता। त्वया स्प्रष्टुं न शक्याहं राक्षसाधम पापिना
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यशः। हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम्
इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा। नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस
न तु शक्यमपक्रोशं पृथिव्यां दातुमात्मनः। एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः
रावणं जानकी तत्र पुनर्नोवाच किंचन। सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः। शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि
कालेनानेन नाभ्येषि यदि मां चारुहासिनि। ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः। राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्
शीघ्रमेव हि राक्षस्यो विरूपा घोरदर्शनाः। दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः
वचनादेव तास्तस्य सुघोरा घोरदर्शनाः। कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्
स ताः प्रोवाच राजासौ रावणो घोरदर्शनाः। प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्
अशोकवनिकामध्ये मैथिली नीयतामिति। तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता
तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्। आनयध्वं वशं सर्वा वन्यां गजवधूमिव
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः। अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्। सर्वकालमदैश्चापि द्विजैः समुपसेविताम्
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा। राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा
शोकेन महता ग्रस्ता मैथिली जनकात्मजा। न शर्म लभते भीरुः पाशबद्धा मृगी यथा