दश राक्षसकोट्यश्च द्वाविंशतिरथापराः। वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान्
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्। सहस्रमेकमेकस्य मम कार्यपुरःसरम्
यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्। जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी
बह्वीनामुत्तमस्त्रीणां मम योऽसौ परिग्रहः। तासां त्वमीश्वरी सीते मम भार्या भव प्रिये
साधु किं तेऽन्यथाबुद्ध्या रोचयस्व वचो मम। भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना। नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु। अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्
राज्यभ्रष्टेन दीनेन तापसेन पदातिना। किं करिष्यसि रामेण मानुषेणाल्पतेजसा
भजस्व सीते मामेव भर्ताहं सदृशस्तव। यौवनं त्वध्रुवं भीरु रमस्वेह मया सह
दर्शने मा कृथा बुद्धिं राघवस्य वरानने। कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः। दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः
त्रयाणामपि लोकानां न तं पश्यामि शोभने। विक्रमेण नयेद् यस्त्वां मद्बाहुपरिपालिताम्
लङ्कायाः सुमहद्राज्यमिदं त्वमनुपालय। त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचरम्
अभिषेकजलक्लिन्ना तुष्टा च रमयस्व च। दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्
यच्च ते सुकृतं कर्म तस्येह फलमाप्नुहि। इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि
भूषणानि च मुख्यानि तानि सेव मया सह। पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे
विमानं सूर्यसंकाशं तरसा निर्जितं रणे। विशालं रमणीयं च तद्विमानं मनोजवम्
तत्र सीते मया सार्धं विहरस्व यथासुखम्। वदनं पद्मसंकाशं विमलं चारुदर्शनम्
शोकार्तं तु वरारोहे न भ्राजति वरानने। एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना
पिधायेन्दुनिभं सीता मन्दमश्रूण्यवर्तयत्। ध्यायन्तीं तामिवास्वस्थां सीतां चिन्ताहतप्रभाम्
उवाच वचनं वीरो रावणो रजनीचरः। अलं व्रीडेन वैदेहि धर्मलोपकृतेन ते
आर्षोऽयं देवि निष्पन्दो यस्त्वामभिभविष्यति। एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते। इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः
न चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत ह। एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम्। कृतान्तवशमापन्नो ममेयमिति मन्यते
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्पञ्चाशः सर्गः ॥३-
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता। तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत
राजा दशरथो नाम धर्मसेतुरिवाचलः। सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः। दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः। लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् वधिष्यति
प्रत्यक्षं यद्यहं तस्य त्वया वै धर्षिता बलात्। शयिता त्वं हतः संख्ये जनस्थाने यथा खरः