यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः। मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च
यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा। या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम्
अज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम्। तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्
निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन्। ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः। उवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः। जनस्थानं हतस्थानं भूतपूर्वं खरालयम्
तत्रास्यतां जनस्थाने शून्ये निहतराक्षसे। पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः
बहुसैन्यं महावीर्यं जनस्थाने निवेशितम्। सदूषणखरं युद्धे निहतं रामसायकैः
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते। वैरं च सुमहज्जातं रामं प्रति सुदारुणम्
निर्यातयितुमिच्छामि तच्च वैरं महारिपोः। नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्
तं त्विदानीमहं हत्वा खरदूषणघातिनम्। रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता। प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः
अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः। कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति
युष्माकं तु बलं ज्ञातं बहुशो रणमूर्धनि। अतश्चास्मिञ्जनस्थाने मया यूयं निवेशिताः
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्। विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्। प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रावणः
thumb|पञ्चपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥३-
संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान्। आत्मानं बुद्धिवैक्लव्यात् कृत्कृत्यममन्यत
स चिन्तयानो वैदेहीं कामबाणैः प्रपीडितः। प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः। अपश्यद् राक्षसीमध्ये सीतां दुःखपरायणाम्
अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्। वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्। अधोगतमुखीं सीतां तामभ्येत्य निशाचरः
तां तु शोकवशाद् दीनामवशां राक्षसाधिपः। सबलाद् दर्शयामास गृहं देवगृहोपमम्
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम्। नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्
दान्तकैस्तापनीयैश्च स्फाटिकै राजतैस्तथा। वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोरमैः
दिव्यदुन्दुभिनिर्घोषं तप्तकाञ्चनभूषणम्। सोपानं काञ्चनं चित्रमारुरोह तया सह
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः। हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः
सुधामणिविचित्राणि भूमिभागानि सर्वशः। दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्
दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः। रावणो दर्शयामास सीतां शोकपरायणाम्
दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम्। उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया