धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृण। बद्धस्त्वं कालपाशेन दुर्निवारेण रावण
क्व गतो लप्स्यसे शर्म मम भर्तुर्महात्मनः। निमेषान्तरमात्रेण विना भ्रातरमाहवे
राक्षसा निहता येन सहस्राणि चतुर्दश। कथं स राघवो वीरः सर्वास्त्रकुशलो बली
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्। एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा। भयशोकसमाविष्टा करुणं विललाप ह
तदा भृशार्तां बहु चैव भाषिणीं विलापपूर्वं करुणं च भामिनीम्। जहार पापस्तरुणीं विचेष्टतीं नृपात्मजामागतगात्रवेपथुः
thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-
ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती। ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान्
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्। उत्तरीयं वरारोहा शुभान्याभरणानि च
मुमोच यदि रामाय शंसेयुरिति भामिनी। वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्
सम्भ्रमात् तु दशग्रीवस्तत्कर्म च न बुद्धवान्। पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव
विक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः। स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्
जगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः। तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्। वनानि सरितः शैलान् सरांसि च विहायसा
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः। तिमिनक्रनिकेतं तु वरुणालयमक्षयम्
सरितां शरणं गत्वा समतीयाय सागरम्। सम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः। अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा
एतदन्तो दशग्रीव इति सिद्धास्तथाब्रुवन्। स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः। सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्
संरूढकक्ष्यां बहुलां स्वमन्तःपुरमाविशत्। तत्र तामसितापाङ्गीं शोकमोहसमन्विताम्
निदधे रावणः सीतां मयो मायामिवासुरीम्। अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः
यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः। मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च
यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा। या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम्
अज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम्। तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्
निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन्। ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः। उवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः। जनस्थानं हतस्थानं भूतपूर्वं खरालयम्
तत्रास्यतां जनस्थाने शून्ये निहतराक्षसे। पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः
बहुसैन्यं महावीर्यं जनस्थाने निवेशितम्। सदूषणखरं युद्धे निहतं रामसायकैः
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते। वैरं च सुमहज्जातं रामं प्रति सुदारुणम्
निर्यातयितुमिच्छामि तच्च वैरं महारिपोः। नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्