जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहुभिः। सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः। प्रविध्वस्तप्रभः श्रीमानासीत् पाण्डुरमण्डलः
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता। यत्र रामस्य वैदेहीं सीतां हरति रावणः
इति भूतानि सर्वाणि गणशः पर्यदेवयन्। वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः
उद्वीक्ष्योद्वीक्ष्य नयनैर्भयादिव विलक्षणैः। सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्। तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम्। स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्। जहारात्मविनाशाय दशग्रीवो मनस्विनीम्
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली। अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता
thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥३-
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा। दुःखिता परमोद्विग्ना भये महति वर्तिनी
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्। रुदती करुणं सीता ह्रियमाणा तमब्रवीत्
न व्यपत्रपसे नीच कर्मणानेन रावण। ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता। ममापवाहितो भर्ता मृगरूपेण मायया
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः। गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम
परमं खलु ते वीर्यं दृश्यते राक्षसाधम। विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे। स्त्रियाश्चाहरणं नीच रहिते च परस्य च
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्। सुनृशंसमधर्मिष्ठं तव शौटीर्यमानिनः
धिक् ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा। कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम्
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि। मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि
नहि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः। ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन। वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण। मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि। येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि
व्यवसायस्तु ते नीच भविष्यति निरर्थकः। नह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम्। न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते। मुमूर्षूणां तु सर्वेषां यत् पथ्यं तन्न रोचते
पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम्। यथा चास्मिन् भयस्थाने न बिभेषि निशाचर
व्यक्तं हिरण्मयांस्त्वं हि सम्पश्यसि महीरुहान्। नदीं वैतरणीं घोरां रुधिरौघविवाहिनीम्
खड्गपत्रवनं चैव भीमं पश्यसि रावण। तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्। नहि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः