तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्। मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः
क्रोशन्तीं राम रामेति रामेण रहितां वने। जीवितान्ताय केशेषु जग्राहान्तकसंनिभः
प्रधर्षितायां वैदेह्यां बभूव सचराचरम्। जगत् सर्वममर्यादं तमसान्धेन संवृतम्
न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः। दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः। प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः। रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया
स तु तां राम रामेति रुदतीं लक्ष्मणेति च। जगामादाय चाकाशं रावणो राक्षसेश्वरः
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी। रराज राजपुत्री तु विद्युत्सौदामनी यथा
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः। अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च। पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्। बभौ चादित्यरागेण ताम्रमभ्रमिवातपे
तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम्। न रराज विना रामं विनालमिव पङ्कजम्
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः। सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्। तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम्
रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम्। सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्
राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम्। शुशुभे न विना रामं दिवा चन्द्र इवोदितः
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्। शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता
सा पद्मपीता हेमाभा रावणं जनकात्मजा। विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा
तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः। बभूव विमलो नीलः सघोष इव तोयदः
उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः। सीताया ह्रियमाणायाः पपात धरणीतले
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः। समाधूता दशग्रीवं पुनरेवाभ्यवर्तत
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्। नक्षत्रमाला विमला मेरुं नगमिवोन्नतम्
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्। विद्युन्मण्डलसंकाशं पपात धरणीतले
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्। प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा। जहाराकाशमाविश्य सीतां वैश्रवणानुजः
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले। सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात्
तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः। वैदेह्या निपतन् भाति गङ्गेव गगनच्युता
उत्पातवाताभिरता नानाद्विजगणायुताः। मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः। सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः। अन्वधावंस्तदा रोषात् सीताच्छायानुगामिनः