तं नीलजीमूतनिकाशकल्पं सपाण्डुरोरस्कमुदारवीर्यम्। ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम्। पुनश्च संगृह्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥३-
सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम्। गृध्रराजं विनिहतं विललाप सुदुःखिता
निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम्। अवश्यं सुखदुःखेषु नराणां परिदृश्यते
न नूनं राम जानासि महद्व्यसनमात्मनः। धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः
अयं हि कृपया राम मां त्रातुमिह संगतः। शेते विनिहतो भूमौ ममाभाग्याद् विहंगमः
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना। सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्। अभ्यधावत वैदेहीं रावणो राक्षसाधिपः
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्। मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः
क्रोशन्तीं राम रामेति रामेण रहितां वने। जीवितान्ताय केशेषु जग्राहान्तकसंनिभः
प्रधर्षितायां वैदेह्यां बभूव सचराचरम्। जगत् सर्वममर्यादं तमसान्धेन संवृतम्
न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः। दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः। प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः। रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया
स तु तां राम रामेति रुदतीं लक्ष्मणेति च। जगामादाय चाकाशं रावणो राक्षसेश्वरः
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी। रराज राजपुत्री तु विद्युत्सौदामनी यथा
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः। अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च। पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्। बभौ चादित्यरागेण ताम्रमभ्रमिवातपे
तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम्। न रराज विना रामं विनालमिव पङ्कजम्
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः। सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्। तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम्
रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम्। सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्
राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम्। शुशुभे न विना रामं दिवा चन्द्र इवोदितः
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्। शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता
सा पद्मपीता हेमाभा रावणं जनकात्मजा। विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा
तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः। बभूव विमलो नीलः सघोष इव तोयदः
उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः। सीताया ह्रियमाणायाः पपात धरणीतले
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः। समाधूता दशग्रीवं पुनरेवाभ्यवर्तत