अथ त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्। मणिसोपानचित्राङ्गं बभञ्ज च महारथम्
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह। पातयामास वेगेन ग्राहिभी राक्षसैः सह
सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः। पुनर्व्यपहनच्छ्रीमान् पक्षिराजो महाबलः
स भग्नधन्वा विरथो हताश्वो हतसारथिः। अङ्केनादाय वैदेहीं पपात भुवि रावणः
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्। साधु साध्विति भूतानि गृध्रराजमपूजयन्
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्। उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः
तं प्रहृष्टं निधायाङ्के रावणं जनकात्मजाम्। गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम्
गृध्रराजः समुत्पत्य रावणं समभिद्रवत्। समावार्य महातेजा जटायुरिदमब्रवीत्
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण। अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः। विषपानं पिबस्येतत् पिपासित इवोदकम्
अनुबन्धमजानन्तः कर्मणामविचक्षणाः। शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे। वधाय बडिशं गृह्य सामिषं जलजो यथा
नहि जातु दुराधर्षौ काकुत्स्थौ तव रावण। धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्। तस्कराचरितो मार्गो नैष वीरनिषेवितः
युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण। शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा
परेतकाले पुरुषो यत् कर्म प्रतिपद्यते। विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्
पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान्। कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः। निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्
तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः। अधिरूढो गजारोहो यथा स्याद् दुष्टवारणम्
विददार नखैरस्य तुण्डं पृष्ठे समर्पयन्। केशांश्चोत्पाटयामास नखपक्षमुखायुधः
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः। अमर्षस्फुरितोष्ठः सन् प्राकम्पत च राक्षसः
सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः। तलेनाभिजघानार्तो जटायुं क्रोधमूर्च्छितः
जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः। वामबाहून् दश तदा व्यपाहरदरिंदमः
संछिन्नबाहोः सद्यो वै बाहवः सहसाभवन्। विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः
ततः क्रोधाद् दशग्रीवः सीतामुत्सृज्य वीर्यवान्। मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्
ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः। राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः। पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत्
स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा। निपपात महागृध्रो धरण्यामल्पजीवितः
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्। अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता
तं नीलजीमूतनिकाशकल्पं सपाण्डुरोरस्कमुदारवीर्यम्। ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्