ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलम्
स तानि शरजालानि गृध्रः पत्ररथेश्वरः। जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। चकार बहुधा गात्रे व्रणान् पतगसत्तमः
अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान्। मृत्युदण्डनिभान् घोरान् शत्रोर्निधनकांक्षया
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः। बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम्। अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत्
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्। चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः
ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्च्छितः। ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः
शरैरावारितस्तस्य संयुगे पतगेश्वरः। कुलायमभिसम्प्राप्तः पक्षिवच्च बभौ तदा
स तानि शरजालानि पक्षाभ्यां तु विधूय ह। चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्। पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः
काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्। तांश्चास्य जवसम्पन्नाञ्जघान समरे बली
अथ त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्। मणिसोपानचित्राङ्गं बभञ्ज च महारथम्
पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह। पातयामास वेगेन ग्राहिभी राक्षसैः सह
सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः। पुनर्व्यपहनच्छ्रीमान् पक्षिराजो महाबलः
स भग्नधन्वा विरथो हताश्वो हतसारथिः। अङ्केनादाय वैदेहीं पपात भुवि रावणः
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्। साधु साध्विति भूतानि गृध्रराजमपूजयन्
परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्। उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः
तं प्रहृष्टं निधायाङ्के रावणं जनकात्मजाम्। गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम्
गृध्रराजः समुत्पत्य रावणं समभिद्रवत्। समावार्य महातेजा जटायुरिदमब्रवीत्
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण। अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्
समित्रबन्धुः सामात्यः सबलः सपरिच्छदः। विषपानं पिबस्येतत् पिपासित इवोदकम्
अनुबन्धमजानन्तः कर्मणामविचक्षणाः। शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे। वधाय बडिशं गृह्य सामिषं जलजो यथा
नहि जातु दुराधर्षौ काकुत्स्थौ तव रावण। धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्। तस्कराचरितो मार्गो नैष वीरनिषेवितः
युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण। शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा
परेतकाले पुरुषो यत् कर्म प्रतिपद्यते। विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्
पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान्। कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः। निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्