यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः। यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा। दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे। ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्। तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्
यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम्। शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत्
षष्टिवर्षसहस्राणि जातस्य मम रावण। पितृपैतामहं राज्यं यथावदनुतिष्ठतः
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी। न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः। हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण। शयिष्यसे हतो भूमौ यथा पूर्वं खरस्तथा
असकृत्संयुगे येन निहता दैत्यदानवाः। न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ। क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः
नहि मे जीवमानस्य नयिष्यसि शुभामिमाम्। सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम्
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः। जीवितेनापि रामस्य तथा दशरथस्य च
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण। वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात्। युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-
इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः। राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः
स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे। बभूव वातोद्धुतयोर्मेघयोर्गगने यथा
तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा। सपक्षयोर्माल्यवतोर्महापर्वतयोरिव
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलम्
स तानि शरजालानि गृध्रः पत्ररथेश्वरः। जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। चकार बहुधा गात्रे व्रणान् पतगसत्तमः
अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान्। मृत्युदण्डनिभान् घोरान् शत्रोर्निधनकांक्षया
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः। बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः
स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम्। अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत्
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्। चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः
ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्च्छितः। ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः
शरैरावारितस्तस्य संयुगे पतगेश्वरः। कुलायमभिसम्प्राप्तः पक्षिवच्च बभौ तदा
स तानि शरजालानि पक्षाभ्यां तु विधूय ह। चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्। पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः