ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्। विवशा ते हृता सीता रावणेनेति शंसत
विदित्वा तु महाबाहुरमुत्रापि महाबलः। आनेष्यति पराक्रम्य वैवस्वतहृतामपि
सा तदा करुणा वाचो विलपन्ती सुदुःखिता। वनस्पतिगतं गृध्रं ददर्शायतलोचना
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता। समाक्रन्दद् भयपरा दुःखोपहतया गिरा
जटायो पश्य मामार्य ह्रियमाणामनाथवत्। अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा
नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः। सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः
रामाय तु यथातत्त्वं जटायो हरणं मम। लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः
thumb|पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चाशः सर्गः ॥३-
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः
ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः। वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः। भ्रातस्त्वं निन्दितं कर्म कर्तुं नार्हसि साम्प्रतम्
जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः। राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः
लोकानां च हिते युक्तो रामो दशरथात्मजः। तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि। कथं राजा स्थितो धर्मे परदारान् परामृशेत्
रक्षणीया विशेषेण राजदारा महाबल। निवर्तय गतिं नीचां परदाराभिमर्शनात्
न तत् समाचरेद् धीरो यत् परोऽस्य विगर्हयेत्। यथाऽऽत्मनस्तथान्येषां दारा रक्ष्या विमर्शनात्
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्। व्यवस्यन्त्यनुराजानं धर्मं पौलस्त्यनन्दन
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः। धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते
पापस्वभावश्चपलः कथं त्वं रक्षसां वर। ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृती
कामस्वभावो यःसोऽसौ न शक्यस्तं प्रमार्जितुम्। नहि दुष्टात्मनामार्यमावसत्यालये चिरम्
विषये वा पुरे वा ते यदा रामो महाबलः। नापराध्यति धर्मात्मा कथं तस्यापराध्यसि
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः। यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा। दहेद् दहनभूतेन वृत्रमिन्द्राशनिर्यथा
सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे। ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्। तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्
यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशो ध्रुवम्। शरीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत्
षष्टिवर्षसहस्राणि जातस्य मम रावण। पितृपैतामहं राज्यं यथावदनुतिष्ठतः
वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी। न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः। हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव