कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि। यः स्त्रियो वचनाद् राज्यं विहाय ससुहृज्जनम्
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः। इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः। जग्राह रावणः सीतां बुधः खे रोहिणीमिव
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः। ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम्। प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः
स च मायामयो दिव्यः खरयुक्तः खरस्वनः। प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः
ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः। अंकेनादाय वैदेहीं रथमारोपयत् तदा
सा गृहीतातिचुक्रोश रावणेन यशस्विनी। रामेति सीता दुःखार्ता रामं दूरं गतं वने
तामकामां स कामार्तः पन्नगेन्द्रवधूमिव। विचेष्टमानामादाय उत्पपाताथ रावणः
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा। भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक। ह्रियमाणां न जानीषे रक्षसा कामरूपिणा
जीवितं सुखमर्थं च धर्महेतोः परित्यजन्। ह्रियमाणामधर्मेण मां राघव न पश्यसि
ननु नामाविनीतानां विनेतासि परंतप। कथमेवंविधं पापं न त्वं शाधि हि रावणम्
न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्। कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये
त्वं कर्म कृतवानेतत् कालोपहतचेतनः। जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह। ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः
आमन्त्रये जनस्थाने कर्णिकारांश्च पुष्पितान्। क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
हंससारससंघुष्टां वन्दे गोदावरीं नदीम्। क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः
दैवतानि च यान्यस्मिन् वने विविधपादपे। नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्
यानि कानिचिदप्यत्र सत्त्वानि विविधानि च। सर्वाणि शरणं यामि मृगपक्षिगणानि वै
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्। विवशा ते हृता सीता रावणेनेति शंसत
विदित्वा तु महाबाहुरमुत्रापि महाबलः। आनेष्यति पराक्रम्य वैवस्वतहृतामपि
सा तदा करुणा वाचो विलपन्ती सुदुःखिता। वनस्पतिगतं गृध्रं ददर्शायतलोचना
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता। समाक्रन्दद् भयपरा दुःखोपहतया गिरा
जटायो पश्य मामार्य ह्रियमाणामनाथवत्। अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा
नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः। सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः
रामाय तु यथातत्त्वं जटायो हरणं मम। लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः
thumb|पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चाशः सर्गः ॥३-
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः
ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः। वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्