निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः। भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा। सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता। हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। सर्वकामफलैर्वृक्षैः संकुलोद्यानभूषिता
तत्र त्वं वस हे सीते राजपुत्रि मया सह। न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि। न स्मरिष्यसि रामस्य मानुषस्य गतायुषः
स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः। मन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्
तेन किं भ्रष्टराज्येन रामेण गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना
रक्ष राक्षसभर्तारं कामय स्वयमागतम्। न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि
प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि। चरणेनाभिहत्येव पुरूरवसमुर्वशी
अङ्गुल्या न समो रामो मम युद्धे स मानुषः। तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्
कथं वैश्रवणं देवं सर्वदेवनमस्कृतम्। भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्। नहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत्
जीवेच्चिरं वज्रधरस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम्। न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः
thumb|एकोनपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्। हस्ते हस्तं समाहत्य चकार सुमहद् वपुः
स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः। नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः। आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः
अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्। कामरूपेण उन्मत्ते पश्य मां कामरूपिणम्
एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे। क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः
सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः। स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः
संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः। क्रोधेन महताविष्टो नीलजीमूतसंनिभः
दशास्यो विंशतिभुजो बभूव क्षणदाचरः। स परिव्राजकच्छद्म महाकायो विहाय तत्
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः। रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्
स तामसितकेशान्तां भास्करस्य प्रभामिव। वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि। मामाश्रय वरारोहे तवाहं सदृशः पतिः
मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव। नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम्
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्। राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्