तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः। कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्
thumb|अष्टचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-
एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः। ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह
भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि। रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः। विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः
येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे। द्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः
मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्। कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्। वीर्यादावर्जितं भद्रे येन यामि विहायसम्
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि। विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः। भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा। सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता। हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। सर्वकामफलैर्वृक्षैः संकुलोद्यानभूषिता
तत्र त्वं वस हे सीते राजपुत्रि मया सह। न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि। न स्मरिष्यसि रामस्य मानुषस्य गतायुषः
स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः। मन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्
तेन किं भ्रष्टराज्येन रामेण गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना
रक्ष राक्षसभर्तारं कामय स्वयमागतम्। न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि
प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि। चरणेनाभिहत्येव पुरूरवसमुर्वशी
अङ्गुल्या न समो रामो मम युद्धे स मानुषः। तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम्
कथं वैश्रवणं देवं सर्वदेवनमस्कृतम्। भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्। नहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत्
जीवेच्चिरं वज्रधरस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम्। न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः
thumb|एकोनपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्। हस्ते हस्तं समाहत्य चकार सुमहद् वपुः
स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः। नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ
उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः। आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः