क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः। आशीविषस्य वदनाद् दंष्ट्रामादातुमिच्छसि
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि। कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम्। राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि। सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि। अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि
कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि। अयोमुखानां शूलानामग्रे चरितुमिच्छसि। रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि
यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः। सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च
यदन्तरं काञ्चनसीसलोहयो- र्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ। हृतापि तेऽहं न जरां गमिष्ये आज्यं यथा मक्षिकयावगीर्णम्
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम्। गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः। कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्
thumb|अष्टचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-
एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः। ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह
भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि। रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः। विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः
येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे। द्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः
मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्। कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्। वीर्यादावर्जितं भद्रे येन यामि विहायसम्
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि। विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः। भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा। सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता। हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। सर्वकामफलैर्वृक्षैः संकुलोद्यानभूषिता
तत्र त्वं वस हे सीते राजपुत्रि मया सह। न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि। न स्मरिष्यसि रामस्य मानुषस्य गतायुषः
स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः। मन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम्
तेन किं भ्रष्टराज्येन रामेण गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना
रक्ष राक्षसभर्तारं कामय स्वयमागतम्। न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि
प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि। चरणेनाभिहत्येव पुरूरवसमुर्वशी