अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह। जटी तापसरूपेण मया सह सहानुजः
प्रविष्टो दण्डकारण्यं धर्मनित्यो दृढव्रतः। ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा। समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्। रुरून् गोधान् वराहांश्च हत्वाऽऽदायामिषं बहु
स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः। एकश्च दण्डकारण्ये किमर्थं चरसि द्विज
एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः। प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः
येन वित्रासिता लोकाः सदेवासुरमानुषाः। अहं स रावणो नाम सीते रक्षोगणेश्वरः
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्। रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः। सर्वासामेव भद्रं ते ममाग्रमहिषी भव
लङ्का नाम समुद्रस्य मध्ये मम महापुरी। सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि
तत्र सीते मया सार्धं वनेषु विचरिष्यसि। न चास्य वनवासस्य स्पृहयिष्यसि भामिनि
पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः। सीते परिचरिष्यन्ति भार्या भवसि मे यदि
रावणेनैवमुक्ता तु कुपिता जनकात्मजा। प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्। महोदधिमिवाक्षोभ्यमहं राममनुव्रता
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम्। सत्यसंधं महाभागमहं राममनुव्रता
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्। नृसिंहं सिंहसंकाशमहं राममनुव्रता
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम्। पृथुकीर्तिं महाबाहुमहं राममनुव्रता
त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम्। नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक्। राघवस्य प्रियां भार्यां यस्त्वमिच्छसि राक्षस
क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः। आशीविषस्य वदनाद् दंष्ट्रामादातुमिच्छसि
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि। कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम्। राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि। सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि। अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि
कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि। अयोमुखानां शूलानामग्रे चरितुमिच्छसि। रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि
यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः। सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च
यदन्तरं काञ्चनसीसलोहयो- र्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ। हृतापि तेऽहं न जरां गमिष्ये आज्यं यथा मक्षिकयावगीर्णम्
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम्। गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः। कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम्