वसूनां वा वरारोहे देवता प्रतिभासि मे। नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः
राक्षसानामयं वासः कथं तु त्वमिहागता। इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे। मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्
कथमेका महारण्ये न बिभेषि वरानने। कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान्
एका चरसि कल्याणि घोरान् राक्षससेवितान्। इति प्रशस्ता वैदेही रावणेन महात्मना
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम्। सर्वैरतिथिसत्कारैः पूजयामास मैथिली
उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च। अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम्
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम्। अशक्यमुद्द्वेष्टुमुपायदर्शना- न्न्यमन्त्रयद् ब्राह्मणवत् तथागतम्
इयं बृसी ब्राह्मण काममास्यता- मिदं च पाद्यं प्रतिगृह्यतामिति। इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्। प्रसह्य तस्या हरणे दृढं मनः समर्पयामास वधाय रावणः
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा। निरीक्षमाणा हरितं ददर्श त- न्महद् वनं नैव तु रामलक्ष्मणौ
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा। परिव्राजकरूपेण शशंसात्मानमात्मना
ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम्। इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्
दुहिता जनकस्याहं मैथिलस्य महात्मनः। सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी
तत्र त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः। अभिषेचयितुं रामं समेतो राजमन्त्रिभिः
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारं ममार्या याचते वरम्
परिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे। मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्
द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्। नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन
एष मे जीवितस्यान्तो रामो यदभिषिच्यते। इति ब्रुवाणां कैकेयीं श्वशुरो मे स पार्थिवः
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा। मम भर्ता महातेजा वयसा पञ्चविंशकः
अष्टादश हि वर्षाणि मम जन्मनि गण्यते। रामेति प्रथितो लोके सत्यवान् शीलवान् शुचिः
विशालाक्षो महाबाहुः सर्वभूतहिते रतः। कामार्तश्च महाराजः पिता दशरथः स्वयम्
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत्। अभिषेकाय तु पितुः समीपं राममागतम्
कैकेयी मम भर्तारमित्युवाच द्रुतं वचः। तव पित्रा समाज्ञप्तं ममेदं शृणु राघव
भरताय प्रदातव्यमिदं राज्यमकण्टकम्। त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् । तथेत्युवाच तां रामः कैकेयीमकुतोभयः
चकार तद्वचः श्रुत्वा भर्ता मम दृढव्रतः। दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्
एतद् ब्राह्मण रामस्य व्रतं धृतमनुत्तमम्। तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्