समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव। विशाले विमले नेत्रे रक्तान्ते कृष्णतारके
विशालं जघनं पीनमूरू करिकरोपमौ। एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ
पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ। मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ
चारुस्मिते चारुदति चारुनेत्रे विलासिनि। मनो हरसि मे रामे नदीकूलमिवाम्भसा
करान्तमितमध्यासि सुकेशे संहतस्तनि। नैव देवी न गन्धर्वी न यक्षी न च किंनरी
नैवंरूपा मया नारी दृष्टपूर्वा महीतले। रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते
इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे। सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि
राक्षसानामयं वासो घोराणां कामरूपिणाम्। प्रासादाग्राणि रम्याणि नगरोपवनानि च
सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया। वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे। का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते
वसूनां वा वरारोहे देवता प्रतिभासि मे। नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः
राक्षसानामयं वासः कथं तु त्वमिहागता। इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे। मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्
कथमेका महारण्ये न बिभेषि वरानने। कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान्
एका चरसि कल्याणि घोरान् राक्षससेवितान्। इति प्रशस्ता वैदेही रावणेन महात्मना
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम्। सर्वैरतिथिसत्कारैः पूजयामास मैथिली
उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च। अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम्
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम्। अशक्यमुद्द्वेष्टुमुपायदर्शना- न्न्यमन्त्रयद् ब्राह्मणवत् तथागतम्
इयं बृसी ब्राह्मण काममास्यता- मिदं च पाद्यं प्रतिगृह्यतामिति। इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्। प्रसह्य तस्या हरणे दृढं मनः समर्पयामास वधाय रावणः
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा। निरीक्षमाणा हरितं ददर्श त- न्महद् वनं नैव तु रामलक्ष्मणौ
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥३-
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा। परिव्राजकरूपेण शशंसात्मानमात्मना
ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम्। इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्
दुहिता जनकस्याहं मैथिलस्य महात्मनः। सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी
तत्र त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः। अभिषेचयितुं रामं समेतो राजमन्त्रिभिः
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारं ममार्या याचते वरम्
परिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे। मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्
द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्। नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन