खरस्य निधने देवि जनस्थानवधं प्रति। राक्षसा विविधा वाचो व्याहरन्ति महावने
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि। लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना
अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम्। अनार्याकरुणारम्भ नृशंस कुलपांसन
अहं तव प्रियं मन्ये रामस्य व्यसनं महत्। रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे
नैव चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत्। त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि। मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा
तन्न सिध्यति सौमित्रे तवापि भरतस्य वा। कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम्
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्। समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम्
रामं विना क्षणमपि नैव जीवामि भूतले। इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम्
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः। उत्तरं नोत्सहे वक्तुं दैवतं भवती मम
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि। स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः। न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे
श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम्। उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः
न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया। धिक् त्वामद्य विनश्यन्तीं यन्मामेवं विशङ्कसे
स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम्। गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः। निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे। अपि त्वां सह रामेण पश्येयं पुनरागतः
लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा। प्रत्युवाच ततो वाक्यं तीव्रबाष्पपरिप्लुता
गोदावरीं प्रवेक्ष्यामि हीना रामेण लक्ष्मण। आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः
पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्। न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे
इति लक्ष्मणमाश्रुत्य सीता शोकसमन्विता। पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह
तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम्। आश्वासयामास न चैव भर्तु- स्तं भ्रातरं किंचिदुवाच सीता
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य। अवेक्षमाणो बहुशः स मैथिलीं जगाम रामस्य समीपमात्मवान्
thumb|षट्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षट्चत्वारिंशः सर्गः ॥३-
तया परुषमुक्तस्तु कुपितो राघवानुजः। स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः। अभिचक्राम वैदेहीं परिव्राजकरूपधृक्
श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही। वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू
परिव्राजकरूपेण वैदेहीमन्ववर्तत। तामाससादातिबलो भ्रातृभ्यां रहितां वने
रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः। तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम्
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः। तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः
संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः। शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्