व्यनदद् भैरवं नादं धरण्यामल्पजीवितः। म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम्। इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत्
स प्राप्तकालमाज्ञाय चकार च ततः स्वनम्। सदृशं राघवस्येव हा सीते लक्ष्मणेति च
तेन मर्मणि निर्विद्धं शरेणानुपमेन हि। मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः
चक्रे स सुमहाकायं मारीचो जीवितं त्यजन्। तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम्
रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले। जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्
मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु। तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः
हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम्। ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति। इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः
तत्र रामं भयं तीव्रमाविवेश विषादजम्। राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम्
निहत्य पृषतं चान्यं मांसमादाय राघवः। त्वरमाणो जनस्थानं ससाराभिमुखं तदा
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥३-
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने। उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्
नहि मे जीवितं स्थाने हृदयं वावतिष्ठते। क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि। तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्
रक्षसां वशमापन्नं सिंहानामिव गोवृषम्। न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्
तमुवाच ततस्तत्र क्षुभिता जनकात्मजा। सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे। इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते
लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम्। व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते
तेन तिष्ठसि विस्रब्धं तमपश्यन् महाद्युतिम्। किं हि संशयमापन्ने तस्मिन्निह मया भवेत्
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः। एवं ब्रुवाणां वैदेहीं बाष्पशोकसमन्विताम्
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव। पन्नगासुरगन्धर्वदेवदानवराक्षसैः
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः। देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च। दानवेषु च घोरेषु न स विद्येत शोभने
यो रामं प्रतियुध्येत समरे वासवोपमम्। अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि
न त्वामस्मिन् वने हातुमुत्सहे राघवं विना। अनिवार्यं बलं तस्य बलैर्बलवतामपि
त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि। हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्। न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः
गन्धर्वनगरप्रख्या माया तस्य च रक्षसः। न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे। कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः