यदि वायं तथा यन्मां भवेद् वदसि लक्ष्मण। मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया
एतेन हि नृशंसेन मारीचेनाकृतात्मना। वने विचरता पूर्वं हिंसिता मुनिपुंगवाः
उत्थाय बहवोऽनेन मृगयायां जनाधिपाः। निहताः परमेष्वासास्तस्माद् वध्यस्त्वयं मृगः
पुरस्तादिह वातापिः परिभूय तपस्विनः। उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव
स कदाचिच्चिराल्लोभादाससाद महामुनिम्। अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह
त्वयाविगण्य वातापे परिभूताश्च तेजसा। जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः
तद् रक्षो न भवेदेव वातापिरिव लक्ष्मण। मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्
भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतः। इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्
अस्यामायत्तमस्माकं यत् कृत्यं रघुनन्दन। अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम्
यावद् गच्छामि सौमित्रे मृगमानयितुं द्रुतम्। पश्य लक्ष्मण वैदेह्या मृगत्वचि गतां स्पृहाम्
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति। अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया
यावत् पृषतमेकेन सायकेन निहन्म्यहम्। हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण
प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण। भवाप्रमत्तः प्रतिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः। बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्
ततस्त्रिविनतं चापमादायात्मविभूषणम्। आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः
तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै। बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत्
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः। तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने। अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरम्। दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित्
छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्। मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते
दर्शनादर्शनेनैव सोऽपाकर्षत राघवम्। स दूरमाश्रमस्यास्य मारीचो मृगतां गतः
आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः। अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले
स तमुन्मादयामास मृगरूपो निशाचरः। मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत
ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत। तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत्
पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः। दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः। सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम्
संधाय सुदृढे चापे विकृष्य बलवद्बली। तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम्। शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः
मारीचस्यैव हृदयं बिभेदाशनिसंनिभः। तालमात्रमथोत्प्लुत्य न्यपतत् स भृशातुरः