भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो। मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः। अजिनं नरशार्दूल रुचिरं तु भविष्यति
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि। शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्। वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा। तरुणादित्यवर्णेन नक्षत्रपथवर्चसा
बभूव राघवस्यापि मनो विस्मयमागतम्। इति सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्
लोभितस्तेन रूपेण सीतया च प्रचोदितः। उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः
पश्य लक्ष्मण वैदेह्याः स्पृहामुल्लसितामिमाम्। रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति
न वने नन्दनोद्देशे न चैत्ररथसंश्रये। कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित् समो मृगः
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः। शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्। जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्
मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः। कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम्। नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्
मांसहेतोरपि मृगान् विहारार्थं च धन्विनः। घ्नन्ति लक्ष्मण राजानो मृगयायां महावने
धनानि व्यवसायेन विचीयन्ते महावने। धातवो विविधाश्चापि मणिरत्नसुवर्णिनः
तत् सारमखिलं नॄणां धनं निचयवर्धनम्। मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्। तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मण
एतस्य मृगरत्नस्य परार्घ्ये काञ्चनत्वचि। उपवेक्ष्यति वैदेही मया सह सुमध्यमा
न कादली न प्रियकी न प्रवेणी न चाविकी। भवेदेतस्य सदृशी स्पर्शेऽनेनेति मे मतिः
एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः। उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ
यदि वायं तथा यन्मां भवेद् वदसि लक्ष्मण। मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया
एतेन हि नृशंसेन मारीचेनाकृतात्मना। वने विचरता पूर्वं हिंसिता मुनिपुंगवाः
उत्थाय बहवोऽनेन मृगयायां जनाधिपाः। निहताः परमेष्वासास्तस्माद् वध्यस्त्वयं मृगः
पुरस्तादिह वातापिः परिभूय तपस्विनः। उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव
स कदाचिच्चिराल्लोभादाससाद महामुनिम्। अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह
त्वयाविगण्य वातापे परिभूताश्च तेजसा। जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः
तद् रक्षो न भवेदेव वातापिरिव लक्ष्मण। मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्
भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतः। इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्
अस्यामायत्तमस्माकं यत् कृत्यं रघुनन्दन। अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम्
यावद् गच्छामि सौमित्रे मृगमानयितुं द्रुतम्। पश्य लक्ष्मण वैदेह्या मृगत्वचि गतां स्पृहाम्