विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत। स च तां रामदयितां पश्यन् मायामयो मृगः
विचचार ततस्तत्र दीपयन्निव तद् वनम्। अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्। विस्मयं परमं सीता जगाम जनकात्मजा
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती। हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी। भर्तारमपि चक्रन्द लक्ष्मणं चैव सायुधम्
आहूयाहूय च पुनस्तं मृगं साधु वीक्षते। आगच्छागच्छ शीघ्रं वै आर्यपुत्र सहानुज
तावाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ। वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत्। तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने। अनेन निहता राम राजानः कामरूपिणा
अस्य मायाविदो माया मृगरूपमिदं कृतम्। भानुमत् पुरुषव्याघ्र गन्धर्वपुरसंनिभम्
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव। जगत्यां जगतीनाथ मायैषा हि न संशयः
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता। उवाच सीता संहृष्टा छद्मना हृतचेतना
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः। आनयैनं महाबाहो क्रीडार्थं नो भविष्यति
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः। मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा। विहरन्ति महाबाहो रूपश्रेष्ठा महाबलाः
न चान्यः सदृशो राजन् दृष्टः पूर्वं मृगो मया। तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः
नानावर्णविचित्राङ्गो रत्नभूतो ममाग्रतः। द्योतयन् वनमव्यग्रं शोभते शशिसंनिभः
अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना। मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे
यदि ग्रहणमभ्येति जीवन् नेव मृगस्तव। आश्चर्यभूतं भवति विस्मयं जनयिष्यति
समाप्तवनवासानां राज्यस्थानां च नः पुनः। अन्तःपुरे विभूषार्थो मृग एष भविष्यति
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो। मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः। अजिनं नरशार्दूल रुचिरं तु भविष्यति
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि। शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्। वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा। तरुणादित्यवर्णेन नक्षत्रपथवर्चसा
बभूव राघवस्यापि मनो विस्मयमागतम्। इति सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्
लोभितस्तेन रूपेण सीतया च प्रचोदितः। उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः
पश्य लक्ष्मण वैदेह्याः स्पृहामुल्लसितामिमाम्। रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति
न वने नन्दनोद्देशे न चैत्ररथसंश्रये। कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित् समो मृगः
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः। शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः