क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः। स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह। स तु रूपं समास्थाय महदद्भुतदर्शनम्
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः। रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः
किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः। मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः
वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः। इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। क्षणेन राक्षसो जातो मृगः परमशोभनः
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्। मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्। विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः
रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः। विटपीनां किसलयान् भक्षयन् विचचार ह
कदलीगृहकं गत्वा कर्णिकारानितस्ततः। समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः
राजीवचित्रपृष्ठः स विरराज महामृगः। रामाश्रमपदाभ्याशे विचचार यथासुखम्
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः। गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते
विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति। आश्रमद्वारमागम्य मृगयूथानि गच्छति
मृगयूथैरनुगतः पुनरेव निवर्तते। सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्। समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः
उपगम्य समाघ्राय विद्रवन्ति दिशो दश। राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्। तस्मिन् नेव ततः काले वैदेही शुभलोचना
कुसुमापचये व्यग्रा पादपानत्यवर्तत। कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा
कुसुमान्यपचिन्वन्ती चचार रुचिरानना। अनर्हा वनवासस्य सा तं रत्नमयं मृगम्
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना। तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम्
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत। स च तां रामदयितां पश्यन् मायामयो मृगः
विचचार ततस्तत्र दीपयन्निव तद् वनम्। अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्। विस्मयं परमं सीता जगाम जनकात्मजा
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥३-
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती। हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी। भर्तारमपि चक्रन्द लक्ष्मणं चैव सायुधम्
आहूयाहूय च पुनस्तं मृगं साधु वीक्षते। आगच्छागच्छ शीघ्रं वै आर्यपुत्र सहानुज
तावाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ। वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत्। तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने। अनेन निहता राम राजानः कामरूपिणा
अस्य मायाविदो माया मृगरूपमिदं कृतम्। भानुमत् पुरुषव्याघ्र गन्धर्वपुरसंनिभम्