अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
तदिदं काकतालीयं घोरमासादितं मया। अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि
मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति। अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः
दर्शनादेव रामस्य हतं मामवधारय। आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया। नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर। परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्
thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-
एवमुक्त्वा तु परुषं मारीचो रावणं ततः। गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा। मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे
नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते। वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते
किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि। एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर
प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्
एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः। इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः
आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः। मया सह रथो युक्तः पिशाचवदनैः खरैः
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि। तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्
ततस्तथेत्युवाचैनं रावणं ताटकासुतः। ततो रावणमारीचौ विमानमिव तं रथम्
आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात्। तथैव तत्र पश्यन्तौ पत्तनानि वनानि च
गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च। समेत्य दण्डकारण्यं राघवस्याश्रमं ततः
ददर्श सहमारीचो रावणो राक्षसाधिपः। अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात्
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्। एतद् रामाश्रमपदं दृश्यते कदलीवृतम्
क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः। स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह। स तु रूपं समास्थाय महदद्भुतदर्शनम्
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः। रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः
किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः। मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः
वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः। इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। क्षणेन राक्षसो जातो मृगः परमशोभनः
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्। मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्। विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः
रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः। विटपीनां किसलयान् भक्षयन् विचचार ह
कदलीगृहकं गत्वा कर्णिकारानितस्ततः। समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः