प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्। लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया
नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै। एतत् कार्यमवश्यं मे बलादपि करिष्यसि। राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः। एतद् यथावत् परिगण्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-
आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत्। अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम्
केनायमुपदिष्टस्ते विनाशः पापकर्मणा। सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर
कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत्। केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर। इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा
केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना। यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर
वध्याः खलु न वध्यन्ते सचिवास्तव रावण। ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः। निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे
धर्ममर्थं च कामं च यशश्च जयतां वर। स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण। व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः
राजमूलो हि धर्मश्च यशश्च जयतां वर। तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर। न चातिप्रतिकूलेन नाविनीतेन राक्षस
ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै। विषमेषु रथाः शीघ्रं मन्दसारथयो यथा
बहवः साधवो लोके युक्तधर्ममनुष्ठिताः। परेषामपराधेन विनष्टाः सपरिच्छदाः
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण। रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
तदिदं काकतालीयं घोरमासादितं मया। अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि
मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति। अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः
दर्शनादेव रामस्य हतं मामवधारय। आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया। नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर। परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्
thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥३-
एवमुक्त्वा तु परुषं मारीचो रावणं ततः। गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा। मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे
नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते। वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते
किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि। एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर
प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्