औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्। धारयन्ति महात्मानो राजानः क्षणदाचर
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा। त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः
अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम्। गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस
मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम। अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम। सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर। प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि
त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया। आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली
अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर। हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः। अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्। आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस। राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये। अहं त्वानुगमिष्यामि सरथो दण्डकावनम्
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्। लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया
नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै। एतत् कार्यमवश्यं मे बलादपि करिष्यसि। राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः। एतद् यथावत् परिगण्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-
आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत्। अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम्
केनायमुपदिष्टस्ते विनाशः पापकर्मणा। सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर
कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत्। केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर। इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा
केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना। यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर
वध्याः खलु न वध्यन्ते सचिवास्तव रावण। ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः। निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे
धर्ममर्थं च कामं च यशश्च जयतां वर। स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण। व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः
राजमूलो हि धर्मश्च यशश्च जयतां वर। तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर। न चातिप्रतिकूलेन नाविनीतेन राक्षस
ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै। विषमेषु रथाः शीघ्रं मन्दसारथयो यथा
बहवः साधवो लोके युक्तधर्ममनुष्ठिताः। परेषामपराधेन विनष्टाः सपरिच्छदाः
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण। रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा