अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्। बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः
रणे रामेण युद्धस्व क्षमां वा कुरु रावण। न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः। परेषामपराधेन विनष्टाः सपरिच्छदाः
सोऽहं परापराधेन विनशेयं निशाचर। कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि वै
रामश्च हि महातेजा महासत्त्वो महाबलः। अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा। अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे। सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-
मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः। उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः। अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः
दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते। वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे। मूर्खस्य पापशीलस्य मानुषस्य विशेषतः
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा। स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः
अवश्यं तु मया तस्य संयुगे खरघातिनः। प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ
एवं मे निश्चिता बुद्धिर्हृदि मारीच विद्यते। न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि। अपायं वा उपायं वा कार्यस्यास्य विनिश्चये
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता। उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः
वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्। उपचारेण वक्तव्यो युक्तं च वसुधाधिपः
सावमर्दं तु यद्वाक्यमथवा हितमुच्यते। नाभिनन्देत तद् राजा मानार्थी मानवर्जितम्
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः। अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्। धारयन्ति महात्मानो राजानः क्षणदाचर
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा। त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः
अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम्। गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस
मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम। अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम। सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर। प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि
त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया। आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली
अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर। हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः। अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्। आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव