निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि। गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरास्तजीवितः
thumb|एकोनचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥३-
एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे। इदानीमपि यद् वृत्तं तच्छृणुष्व यदुत्तरम्
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः। सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावने
दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः। व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण। अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन्
निहत्य दण्डकारण्ये तापसान् धर्मचारिणः। रुधिराणि पिबंस्तेषां तन्मांसानि च भक्षयन्
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्। तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम्
तदाहं दण्डकारण्ये विचरन् धर्मदूषकः। आसादयं तदा रामं तापसं धर्ममाश्रितम्
वैदेहीं च महाभागां लक्ष्मणं च महारथम्। तापसं नियताहारं सर्वभूतहिते रतम्
सोऽहं वनगतं रामं परिभूय महाबलम्। तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्
अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः। जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्
तेन त्यक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः। विकृष्य सुमहच्चापं सुपर्णानिलतुल्यगाः
ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः। आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः
पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा। समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ
शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम्। इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः
वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्। गृहीतधनुषं रामं पाशहस्तमिवान्तकम्
अपि रामसहस्राणि भीतः पश्यामि रावण। रामभूतमिदं सर्वमरण्यं प्रतिभाति मे
राममेव हि पश्यामि रहिते राक्षसेश्वर। दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः
रकारादीनि नामानि रामत्रस्तस्य रावण। रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्। बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः
रणे रामेण युद्धस्व क्षमां वा कुरु रावण। न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः। परेषामपराधेन विनष्टाः सपरिच्छदाः
सोऽहं परापराधेन विनशेयं निशाचर। कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि वै
रामश्च हि महातेजा महासत्त्वो महाबलः। अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा। अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे। सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-
मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः। उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः। अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः